(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.50. अध्यायः 050
Mahabharata - Virata Parva - Chapter Topics
कृपेण स्वगर्हणममृष्यता कर्णेन तदुपालम्भः ॥ 1 ॥ तदसहिष्णुनाऽश्वत्थाम्ना समर्मोद्धाटनं कर्णदुर्योधनोपालम्भः ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text

वैशम्पायन उवाच। 4-50-0x(3206)(30454)
कृपस्य वचनं श्रुत्वा कर्णो राजन्युधांपतिः ।
पुनः प्रोवाच संरब्धो गर्हयन्ब्राह्मणं कृपम् ॥ 4-50-1(30455)
कर्ण उवाच। 4-50-2x(3207)
लक्षयाम्यहमाचार्यं भयाद्भक्तिं गतं रिपौ ।
भीतेन हि न योद्धव्यमहं योत्स्ये धनञ्जयम् ॥ 2 ॥ 4-50-2(30456)
ननु वारुणमाग्नेयं याम्यं वायव्यमेव च।
अस्त्रं ब्रह्मशिरश्चैव सत्वहीनस्य ते वृथा ॥ 4-50-3(30457)
मित्रकार्यं कृतमिदं पितापुत्रैर्महारथैः ।
भर्तृपिण्डश्च निर्विष्टो यथेष्टं गन्तुमर्हथ ॥ 4-50-4(30458)
भिक्षां हरस्व नित्यं त्वं यज्ञाननुचरस्व च।
आमन्त्रणानि भुङ्क्षाद्य माऽस्मान्युद्धेन भीषय ॥ 4-50-5(30459)
भार्गवास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम्।
किं पुनः पाण्डुपुत्राणामेकमर्जुनमाहवे ॥ 4-50-6(30460)
आगमिष्यन्ति पदवीं मात्स्याः पाण्डवमाश्रिताः ।
कीचकानां तु बलिनां शत्रुसेनावमर्दिनाम् ॥ 4-50-7(30461)
तानहं निहनिष्यामि भवता गम्यतां गृहम् ।
किं वेदवादिनां कार्यं परस्नेहानुभाषिणाम् ॥ 4-50-8(30462)
तस्य तद्वचनं श्रुत्वा अश्वत्थामा प्रतापवान् ।
उवाच वदतांश्रेष्ठो दुर्योधनमवेक्ष्य च ॥ 4-50-9(30463)
न च तावञ्जिता गावो न च सीमान्तरं गताः।
न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे ॥ 4-50-10(30464)
बहूनि धर्मशास्त्राणि पठन्ति द्विजसत्तमाः ।
तेषु किंस्विदिदं दृष्टं द्यूते जीयेत यन्नृपः ॥ 4-50-11(30465)
संग्रामान्विपुलाञ्जित्वा लब्धा च विपुलं धनम् ।
विजित्य च महीं कृत्स्नां नेह कत्थन्ति पण्डिताः ॥ 4-50-12(30466)
पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः ।
तूष्णीं धारयते लोकान्वसुधा सचराचरान् ॥ 4-50-13(30467)
चातुर्वर्ण्यस्य कर्माणि विहितानि महर्षिभिः ।
धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति ॥ 4-50-14(30468)
अधीत्य ब्राह्मणो वेदान्याजयेत यजेत वा ।
क्षत्रियो धनमाहृत्य यजेतैव न याजयेत् ॥ 4-50-15(30469)
वैश्योऽधिगम्य वित्तानि वार्ताकर्माणि कारयेत्॥ 4-50-16(30470)
शूद्रः शुश्रूषणं कुर्यात्रिषु वर्णेषु नित्यशः।
वन्दनायोगविधिभिर्वैतसीं वृत्तिमाश्रितः ॥ 4-50-17(30471)
वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम् ।
प्रकुर्वन्ति महाभागा यज्ञान्सुविपुलानपि ॥ 4-50-18(30472)
का जातिस्तेषु सूतेयं केऽपि मन्त्राः क्रियाश्च काः ।
केयं वर्णेषु या राज्ञो वक्तृभोक्तृनियन्तृषु ॥ 4-50-19(30473)
वैशम्पायन उवाच। 4-50-20x(3208)
दुर्योधनमभिप्रेक्ष्य कर्णं च कुरुसंसाद।
अश्वत्थामा भृशं क्रुद्धो दुर्योधनमतर्जयत् ॥ 4-50-20(30474)
प्राप्य द्यूतेन को राज्यं क्षत्रियः स्तोष्टुर्महति ।
तथा नृशंसरूपोयं धार्तराष्ट्रश्च निर्घृणः ॥ 4-50-21(30475)
तथाऽधिगम्य वित्तानि को विकत्थेद्विचक्षणः ।
निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा ॥ 4-50-22(30476)
कतमद्द्वैरथं युद्धं यत्राजैषीर्धनञ्जयम्।
नकुलं सहदेवं वा धनं येषां त्वया हृतम् ॥ 4-50-23(30477)
युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनांवरः ।
इन्द्रप्रस्थं त्वया कस्मिन्संग्रामे निर्जितं पुरा ॥ 4-50-24(30478)
तथैव कतमद्युद्धं यस्मिन्कृष्णा जिता त्वया ।
एकवस्त्रा सभां नीता क्षुद्रकर्मन्रजस्वला ॥ 4-50-25(30479)
मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा।
क्षुद्रं कर्म समास्थाय तत्र किं विदुरोऽब्रवीत् ॥ 4-50-26(30480)
यथाशक्ति मनुष्याणाममर्षं लक्षयामहे।
अन्येषामपि सत्वानामपि कीटपिपीलिकैः ॥ 4-50-27(30481)
द्रौपद्याः संपरिक्लेशं न क्षन्तुं पाण्डवोऽर्हति।
क्षयाय धार्तराष्ट्राणां प्रादुर्भूतो धनञ्जयः ॥ 4-50-28(30482)
त्वं पुनः पण्डितो भूत्वा ह्याचार्यं क्षेप्तुमिच्छसि।
वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति ॥ 4-50-29(30483)
नैव देवा न गन्धर्वा नासुरा न च राक्षसाः।
भयादिह न युद्ध्येरन्पाण्डुपुत्रेण धीमता ॥ 4-50-30(30484)
यं यमेकोपि संक्रुद्धः संग्रामे निपतिष्यति ।
वृक्षं गरुडवद्वेगाद्विनिहत्यान्तमेष्यति ॥ 4-50-31(30485)
त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम् ।
वासुदेवसमं युद्धे तं पार्थं को न पूजयेत् ॥ 4-50-32(30486)
देवं दैवेन युद्ध्येत मानुपेण च मानुपम् ।
अस्त्रं ह्यस्त्रेण यो हन्यात्कोऽर्जुनेन समः पुमान् ॥ 4-50-33(30487)
पुत्रादनवमः शिष्य इति धर्मविदो विदुः।
एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः ॥ 4-50-34(30488)
यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाऽहरः ।
यथाऽनैषीः सभां कृष्णां तथा युध्यस्व पाण्डवं ॥ 4-50-35(30489)
अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः ।
दुर्द्यूतदेवी गान्धारः शकुनिर्युद्ध्यतामिह ॥ 4-50-36(30490)
नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च।
ज्वलतो निशितान्बाणांस्तांस्तान्क्षिपति गाण्डिवं ॥ 4-50-37(30491)
न हि गाण्डीवनिर्मुक्ता गृध्रपक्षाः सुतेजनाः ।
नान्तरेष्ववतिष्ठन्ते गिरीणामपि दारणाः ॥ 4-50-38(30492)
अन्तकः पवनो मृत्युस्तथाऽग्निर्बडवामुखः ।
कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनञ्जयः ॥ 4-50-39(30493)
यथा सभायां द्यूतं त्वं मातुलेन महाकरोः ।
तथा युद्धस्व संग्रामे सौबलेन सुरक्षितः ॥ 4-50-40(30494)
युद्ध्यतां काममाचार्यो नाहं योत्स्ये धनञ्जयम् ।
मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवांपदम् ॥ ॥ 4-50-41(30495)

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चाशोऽध्यायः ॥ 50 ॥

Mahabharata - Virata Parva - Chapter Footnotes
4-50-14 यदुक्तं ब्राह्मणानां भोजनादावेव कौशलं न युद्ध इति तत्र तवापि वैश्यत्वान्न युद्धे सामर्थ्यमस्तीति दर्शयिष्यन्वर्णानां कर्माणि विभजते चातुर्वर्ण्यस्येत्यादिना ॥ 14 ॥ 4-50-22 वैतंसिको व्याधः ॥ 22 ॥ 4-50-26 अनृतं द्यूतं कुर्वता धार्तराष्ट्रेण धर्मस्य मूलं कृत्तं छिन्नं । तत्र तदा विदुरः किमब्रवीत् क्षयमूलं द्यूतमिति तत्स्मरेति शेषः ॥ 26 ॥ 4-50-37 चकारात् त्रेतानि समुच्चीयते। कृतादयो द्यूतशास्त्रप्रसिद्धाः पाशकाः ॥ 37 ॥ ॥ पञ्चाशोऽध्यायः ॥ 50 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.