|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.50. अध्यायः 050
Mahabharata - Virata Parva - Chapter Topics
कृपेण स्वगर्हणममृष्यता कर्णेन तदुपालम्भः ॥ 1 ॥ तदसहिष्णुनाऽश्वत्थाम्ना समर्मोद्धाटनं कर्णदुर्योधनोपालम्भः ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-50-0x(3206)(30454)
कृपस्य वचनं श्रुत्वा कर्णो राजन्युधांपतिः ।
पुनः प्रोवाच संरब्धो गर्हयन्ब्राह्मणं कृपम् ॥ 4-50-1(30455)
कर्ण उवाच। 4-50-2x(3207)
लक्षयाम्यहमाचार्यं भयाद्भक्तिं गतं रिपौ ।
भीतेन हि न योद्धव्यमहं योत्स्ये धनञ्जयम् ॥ 2 ॥ 4-50-2(30456)
ननु वारुणमाग्नेयं याम्यं वायव्यमेव च।
अस्त्रं ब्रह्मशिरश्चैव सत्वहीनस्य ते वृथा ॥ 4-50-3(30457)
मित्रकार्यं कृतमिदं पितापुत्रैर्महारथैः ।
भर्तृपिण्डश्च निर्विष्टो यथेष्टं गन्तुमर्हथ ॥ 4-50-4(30458)
भिक्षां हरस्व नित्यं त्वं यज्ञाननुचरस्व च।
आमन्त्रणानि भुङ्क्षाद्य माऽस्मान्युद्धेन भीषय ॥ 4-50-5(30459)
भार्गवास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम्।
किं पुनः पाण्डुपुत्राणामेकमर्जुनमाहवे ॥ 4-50-6(30460)
आगमिष्यन्ति पदवीं मात्स्याः पाण्डवमाश्रिताः ।
कीचकानां तु बलिनां शत्रुसेनावमर्दिनाम् ॥ 4-50-7(30461)
तानहं निहनिष्यामि भवता गम्यतां गृहम् ।
किं वेदवादिनां कार्यं परस्नेहानुभाषिणाम् ॥ 4-50-8(30462)
तस्य तद्वचनं श्रुत्वा अश्वत्थामा प्रतापवान् ।
उवाच वदतांश्रेष्ठो दुर्योधनमवेक्ष्य च ॥ 4-50-9(30463)
न च तावञ्जिता गावो न च सीमान्तरं गताः।
न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे ॥ 4-50-10(30464)
बहूनि धर्मशास्त्राणि पठन्ति द्विजसत्तमाः ।
तेषु किंस्विदिदं दृष्टं द्यूते जीयेत यन्नृपः ॥ 4-50-11(30465)
संग्रामान्विपुलाञ्जित्वा लब्धा च विपुलं धनम् ।
विजित्य च महीं कृत्स्नां नेह कत्थन्ति पण्डिताः ॥ 4-50-12(30466)
पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः ।
तूष्णीं धारयते लोकान्वसुधा सचराचरान् ॥ 4-50-13(30467)
चातुर्वर्ण्यस्य कर्माणि विहितानि महर्षिभिः ।
धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति ॥ 4-50-14(30468)
अधीत्य ब्राह्मणो वेदान्याजयेत यजेत वा ।
क्षत्रियो धनमाहृत्य यजेतैव न याजयेत् ॥ 4-50-15(30469)
वैश्योऽधिगम्य वित्तानि वार्ताकर्माणि कारयेत्॥ 4-50-16(30470)
शूद्रः शुश्रूषणं कुर्यात्रिषु वर्णेषु नित्यशः।
वन्दनायोगविधिभिर्वैतसीं वृत्तिमाश्रितः ॥ 4-50-17(30471)
वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम् ।
प्रकुर्वन्ति महाभागा यज्ञान्सुविपुलानपि ॥ 4-50-18(30472)
का जातिस्तेषु सूतेयं केऽपि मन्त्राः क्रियाश्च काः ।
केयं वर्णेषु या राज्ञो वक्तृभोक्तृनियन्तृषु ॥ 4-50-19(30473)
वैशम्पायन उवाच। 4-50-20x(3208)
दुर्योधनमभिप्रेक्ष्य कर्णं च कुरुसंसाद।
अश्वत्थामा भृशं क्रुद्धो दुर्योधनमतर्जयत् ॥ 4-50-20(30474)
प्राप्य द्यूतेन को राज्यं क्षत्रियः स्तोष्टुर्महति ।
तथा नृशंसरूपोयं धार्तराष्ट्रश्च निर्घृणः ॥ 4-50-21(30475)
तथाऽधिगम्य वित्तानि को विकत्थेद्विचक्षणः ।
निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा ॥ 4-50-22(30476)
कतमद्द्वैरथं युद्धं यत्राजैषीर्धनञ्जयम्।
नकुलं सहदेवं वा धनं येषां त्वया हृतम् ॥ 4-50-23(30477)
युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनांवरः ।
इन्द्रप्रस्थं त्वया कस्मिन्संग्रामे निर्जितं पुरा ॥ 4-50-24(30478)
तथैव कतमद्युद्धं यस्मिन्कृष्णा जिता त्वया ।
एकवस्त्रा सभां नीता क्षुद्रकर्मन्रजस्वला ॥ 4-50-25(30479)
मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा।
क्षुद्रं कर्म समास्थाय तत्र किं विदुरोऽब्रवीत् ॥ 4-50-26(30480)
यथाशक्ति मनुष्याणाममर्षं लक्षयामहे।
अन्येषामपि सत्वानामपि कीटपिपीलिकैः ॥ 4-50-27(30481)
द्रौपद्याः संपरिक्लेशं न क्षन्तुं पाण्डवोऽर्हति।
क्षयाय धार्तराष्ट्राणां प्रादुर्भूतो धनञ्जयः ॥ 4-50-28(30482)
त्वं पुनः पण्डितो भूत्वा ह्याचार्यं क्षेप्तुमिच्छसि।
वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति ॥ 4-50-29(30483)
नैव देवा न गन्धर्वा नासुरा न च राक्षसाः।
भयादिह न युद्ध्येरन्पाण्डुपुत्रेण धीमता ॥ 4-50-30(30484)
यं यमेकोपि संक्रुद्धः संग्रामे निपतिष्यति ।
वृक्षं गरुडवद्वेगाद्विनिहत्यान्तमेष्यति ॥ 4-50-31(30485)
त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम् ।
वासुदेवसमं युद्धे तं पार्थं को न पूजयेत् ॥ 4-50-32(30486)
देवं दैवेन युद्ध्येत मानुपेण च मानुपम् ।
अस्त्रं ह्यस्त्रेण यो हन्यात्कोऽर्जुनेन समः पुमान् ॥ 4-50-33(30487)
पुत्रादनवमः शिष्य इति धर्मविदो विदुः।
एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः ॥ 4-50-34(30488)
यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाऽहरः ।
यथाऽनैषीः सभां कृष्णां तथा युध्यस्व पाण्डवं ॥ 4-50-35(30489)
अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः ।
दुर्द्यूतदेवी गान्धारः शकुनिर्युद्ध्यतामिह ॥ 4-50-36(30490)
नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च।
ज्वलतो निशितान्बाणांस्तांस्तान्क्षिपति गाण्डिवं ॥ 4-50-37(30491)
न हि गाण्डीवनिर्मुक्ता गृध्रपक्षाः सुतेजनाः ।
नान्तरेष्ववतिष्ठन्ते गिरीणामपि दारणाः ॥ 4-50-38(30492)
अन्तकः पवनो मृत्युस्तथाऽग्निर्बडवामुखः ।
कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनञ्जयः ॥ 4-50-39(30493)
यथा सभायां द्यूतं त्वं मातुलेन महाकरोः ।
तथा युद्धस्व संग्रामे सौबलेन सुरक्षितः ॥ 4-50-40(30494)
युद्ध्यतां काममाचार्यो नाहं योत्स्ये धनञ्जयम् ।
मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवांपदम् ॥ ॥ 4-50-41(30495)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चाशोऽध्यायः ॥ 50 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-50-14 यदुक्तं ब्राह्मणानां भोजनादावेव कौशलं न युद्ध इति तत्र तवापि वैश्यत्वान्न युद्धे सामर्थ्यमस्तीति दर्शयिष्यन्वर्णानां कर्माणि विभजते चातुर्वर्ण्यस्येत्यादिना ॥ 14 ॥ 4-50-22 वैतंसिको व्याधः ॥ 22 ॥ 4-50-26 अनृतं द्यूतं कुर्वता धार्तराष्ट्रेण धर्मस्य मूलं कृत्तं छिन्नं । तत्र तदा विदुरः किमब्रवीत् क्षयमूलं द्यूतमिति तत्स्मरेति शेषः ॥ 26 ॥ 4-50-37 चकारात् त्रेतानि समुच्चीयते। कृतादयो द्यूतशास्त्रप्रसिद्धाः पाशकाः ॥ 37 ॥ ॥ पञ्चाशोऽध्यायः ॥ 50 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|